ॐ श्रीपरमात्मने नम:
श्रीमद्भगवद्गीता
अथ द्वादशोऽध्यायः
अर्जुन उवाच ।
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमा: ॥12.1॥
अर्जुन उवाच ।
एवं(म्) सततयुक्ता ये, भक्तास्त्वां(म्) पर्युपासते ।
ये चाप्यक्षरमव्यक्तं(न्), तेषां(ङ्) के योगवित्तमाः ॥12.1॥
श्रीभगवानुवाच ।
मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते ।
श्रद्धया परयोपेतास्ते मे युक्ततमा मता: ॥12.2॥
श्रीभगवानुवाच ।
मय्यावेश्य मनो ये मां(न्), नित्ययुक्ता उपासते ।
श्रद्धया परयोपेता:(स्), ते मे युक्ततमा मताः ॥12.2॥
ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ॥12.3॥
ये त्वक्षरमनिर्देश्यम्, अव्यक्तं(म्) पर्युपासते ।
सर्वत्रगमचिन्त्यं(ञ्) च, कूटस्थमचलं(न्) ध्रुवम् ॥12.3॥
सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धय: ।
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रता: ॥12.4॥
सन्नियम्येन्द्रियग्रामं(म्), सर्वत्र समबुद्धयः ।
ते प्राप्नुवन्ति मामेव, सर्वभूतहिते रताः ॥12.4॥
क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दु:खं देहवद्भिरवाप्यते ॥12.5॥
क्लेशोऽधिकतरस्तेषाम्, अव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं(न्), देहवद्भिरवाप्यते ॥12.5॥
ये तु सर्वाणि कर्माणि मयि संन्न्यस्य मत्परा: ।
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥12.6॥
ये तु सर्वाणि कर्माणि, मयि सन्न्यस्य मत्पराः ।
अनन्येनैव योगेन, मां(न्) ध्यायन्त उपासते ॥12.6॥
तेषामहं समुद्धर्ता मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ॥12.7॥
तेषामहं(म्) समुद्धर्ता, मृत्युसंसारसागरात् ।
भवामि नचिरात्पार्थ, मय्यावेशितचेतसाम् ॥12.7॥
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय ।
निवसिष्यसि मय्येव अत ऊर्ध्वं न संशय: ॥12.8॥
मय्येव मन आधत्स्व, मयि बुद्धिं(न्) निवेशय ।
निवसिष्यसि मय्येव, अत ऊर्ध्वं(न्) न संशयः ॥12.8॥
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥12.9॥
अथ चित्तं(म्) समाधातुं(न्), न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो, मामिच्छाप्तुं(न्) धनञ्जय ॥12.9॥
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥12.10॥
अभ्यासेऽप्यसमर्थोऽसि, मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि, कुर्वन्सिद्धिमवाप्स्यसि ॥12.10॥
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रित: ।
सर्वकर्मफलत्यागं तत: कुरु यतात्मवान् ॥12.11॥
अथैतदप्यशक्तोऽसि, कर्तुं(म्) मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं(न्), ततः(ख्) कुरु यतात्मवान् ॥12.11॥
श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥12.12॥
श्रेयो हि ज्ञानमभ्यासाज्, ज्ञानाद्ध्यानं(व्ँ) विशिष्यते ।
ध्यानात्कर्मफलत्याग:(स्), त्यागाच्छान्तिरनन्तरम् ॥12.12॥
अद्वेष्टा सर्वभूतानां मैत्र: करुण एव च ।
निर्ममो निरहङ्कार: समदु:खसुख: क्षमी ॥12.13॥
अद्वेष्टा सर्वभूतानां(म्), मैत्रः(ख्) करुण एव च ।
निर्ममो निरहङ्कारः(स्), समदुःखसुखः क्षमी ॥12.13॥
सन्तुष्ट: सततं योगी यतात्मा दृढनिश्चय: ।
मय्यर्पितमनोबुद्धिर्यो मद्भक्त: स मे प्रिय: ॥12.14॥
सन्तुष्टः(स्) सततं(य्ँ) योगी, यतात्मा दृढनिश्चयः ।
मय्यर्पितमनोबुद्धि:(र्), यो मद्भक्तः(स्) स मे प्रियः ॥12.14॥
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च य: ।
हर्षामर्षभयोद्वेगैर्मुक्तो य: स च मे प्रिय: ॥12.15॥
यस्मान्नोद्विजते लोको, लोकान्नोद्विजते च यः ।
हर्षामर्षभयोद्वेगै:(र्), मुक्तो यः(स्) स च मे प्रियः ॥12.15॥
अनपेक्ष: शुचिर्दक्ष उदासीनो गतव्यथ: ।
सर्वारम्भपरित्यागी यो मद्भक्त: स मे प्रिय: ॥12.16॥
अनपेक्षः(श्) शुचिर्दक्ष, उदासीनो गतव्यथः ।
सर्वारम्भपरित्यागी, यो मद्भक्तः(स्) स मे प्रियः ॥12.16॥
यो न हृष्यति न द्वेष्टि न शोचति न काङ् क्षति ।
शुभाशुभपरित्यागी भक्तिमान्य: स मे प्रिय: ॥12.17॥
यो न हृष्यति न द्वेष्टि, न शोचति न काङ्क्षति ।
शुभाशुभपरित्यागी, भक्तिमान्यः(स्) स मे प्रियः ॥12.17॥
सम: शत्रौ च मित्रे च तथा मानापमानयो: ।
शीतोष्णसुखदु:खेषु सम: सङ्गविवर्जित: ॥12.18॥
समः(श्) शत्रौ च मित्रे च, तथा मानापमानयोः ।
शीतोष्णसुखदुःखेषु, समः(स्) सङ्गविवर्जितः ॥12.18॥
तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् ।
अनिकेत: स्थिरमतिर्भक्तिमान्मे प्रियो नर: ॥12.19॥
तुल्यनिन्दास्तुतिर्मौनी, सन्तुष्टो येन केनचित् ।
अनिकेतः(स्) स्थिरमति:(र्), भक्तिमान्मे प्रियो नरः ॥12.19॥
ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते ।
श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रिया: ॥12.20॥
ये तु धर्म्यामृतमिदं(य्ँ), यथोक्तं(म्) पर्युपासते ।
श्रद्दधाना मत्परमा, भक्तास्तेऽतीव मे प्रियाः ॥12.20॥
ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां(य्ँ)
योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्याय:॥
॥ॐ श्रीकृष्णार्पणमस्तु॥