भगवद्गीता – अध्याय 16 (दैवासुर संपद विभाग योग) – श्लोक

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: ।

4 Min Read
ॐ श्रीपरमात्मने नम: 
श्रीमद्भगवद्गीता
अथ षोडशोऽध्याय:

श्रीभगवानुवाच ।
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थिति: ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥16.1॥
श्रीभगवानुवाच ।
अभयं(म्) सत्त्वसंशुद्धिः(र्), ज्ञानयोगव्यवस्थिति: ।
दानं(न्) दमश्च यज्ञश्च, स्वाध्यायस्तप आर्जवम्॥16.1॥

अहिंसा सत्यमक्रोधस्त्याग: शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ॥16.2॥
अहिंसा सत्यमक्रोध:(स्), त्यागः(श्) शान्तिरपैशुनम् ।
दया भूतेष्वलोलुप्त्वं(म्), मार्दवं(म्) ह्रीरचापलम् ॥16.2॥

तेज: क्षमा धृति: शौचमद्रोहोनातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥16.3॥
तेजः क्षमा धृतिः(श्) शौचम्, अद्रोहो नातिमानिता ।
भवन्ति सम्पदं(न्) दैवीम्, अभिजातस्य भारत ॥16.3॥

दम्भो दर्पोऽभिमानश्च क्रोध: पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥16.4॥
दम्भो दर्पोऽभिमानश्च, क्रोधः(फ्) पारुष्यमेव च ।
अज्ञानं(ञ्) चाभिजातस्य, पार्थ सम्पदमासुरीम् ॥16.4॥

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता ।
मा शुच: सम्पदं दैवीमभिजातोऽसि पाण्डव ॥16.5॥
दैवी सम्पद्विमोक्षाय, निबन्धायासुरी मता ।
मा शुच:(स्) सम्पदं(न्) दैवीम्, अभिजातोऽसि पाण्डव ॥16.5॥

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च ।
दैवो विस्तरश: प्रोक्त आसुरं पार्थ मे शृणु ॥16.6॥
द्वौ भूतसर्गौ लोकेऽस्मिन्, दैव आसुर एव च ।
दैवो विस्तरश:(फ्) प्रोक्त , आसुरं(म्) पार्थ मे शृणु ॥16.6॥

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुरा: ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥16.7॥
प्रवृत्तिं(ञ्) च निवृत्तिं(ञ्) च, जना न विदुरासुराः ।
न शौचं(न्) नापि चाचारो, न सत्यं(न्) तेषु विद्यते ॥16.7॥

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ॥16.8॥
असत्यमप्रतिष्ठं(न्) ते, जगदाहुरनीश्वरम् ।
अपरस्परसम्भूतं(ङ्), किमन्यत्कामहैतुकम् ॥16.8॥

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धय: ।
प्रभवन्त्युग्रकर्माण: क्षयाय जगतोऽहिता: ॥16.9॥
एतां(न्) दृष्टिमवष्टभ्य, नष्टात्मानोऽल्पबुद्धय: ।
प्रभवन्त्युग्रकर्माण:, क्षयाय जगतोऽहिता: ॥16.9॥

काममाश्रित्य दुष्पूरं दम्भमानमदान्विता: ।
मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रता: ॥16.10॥
काममाश्रित्य दुष्पूरं(न्), दम्भमानमदान्विता: ।
मोहाद्गृहीत्वासद्ग्राहान्, प्रवर्तन्तेऽशुचिव्रता: ॥16.10॥

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिता: ।
कामोपभोगपरमा एतावदिति निश्चिता: ॥16.11॥
चिन्तामपरिमेयां(ञ्) च, प्रलयान्तामुपाश्रिता: ।
कामोपभोगपरमा, एतावदिति निश्चिता: ॥16.11॥

आशापाशशतैर्बद्धा: कामक्रोधपरायणा: ।
ईहन्ते कामभोगार्थमन्यायेनार्थसञ्जयान् ॥16.12॥
आशापाशशतैर्बद्धा:(ख्), कामक्रोधपरायणा: ।
ईहन्ते कामभोगार्थम्, अन्यायेनार्थसञ्चयान् ॥16.12॥

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे भविष्यति पुनर्धनम् ॥16.13॥
इदमद्य मया लब्धम्, इमं(म्) प्राप्स्ये मनोरथम् ।
इदमस्तीदमपि मे, भविष्यति पुनर्धनम् ॥16.13॥

असौ मया हत: शत्रुर्हनिष्ये चापरानपि ।
ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ॥16.14॥
असौ मया हत:(श्) शत्रु:(र्), हनिष्ये चापरानपि ।
ईश्वरोऽहमहं(म्) भोगी, सिद्धोऽहं(म्) बलवान्सुखी ॥16.14॥

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिता: ॥16.15॥
आढ्योऽभिजनवानस्मि, कोऽन्योऽस्ति सदृशो मया ।
यक्ष्ये दास्यामि मोदिष्य, इत्यज्ञानविमोहिताः ॥16.15॥

अनेकचित्तविभ्रान्ता मोहजालसमावृता: ।
प्रसक्ता: कामभोगेषु पतन्ति नरकेऽशुचौ ॥16.16॥
अनेकचित्तविभ्रान्ता, मोहजालसमावृता: ।
प्रसक्ता:(ख्) कामभोगेषु, पतन्ति नरकेऽशुचौ ॥16.16॥

आत्मसम्भाविता: स्तब्धा धनमानमदान्विता: ।
यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ॥16.17॥
आत्मसम्भाविताः(स्) स्तब्धा, धनमानमदान्विता: ।
यजन्ते नामयज्ञैस्ते, दम्भेनाविधिपूर्वकम् ॥16.17॥

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिता: ।
मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयका: ॥16.18॥
अहङ्कारं(म्) बलं(न्) दर्पं(ङ्), कामं(ङ्) क्रोधं(ञ्) च संश्रिताः ।
मामात्मपरदेहेषु, प्रद्विषन्तोऽभ्यसूयकाः ॥16.18॥

तानहं द्विषत: क्रूरान्संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥16.19॥
तानहं(न्) द्विषतः(ख्) क्रूरान्, संसारेषु नराधमान् ।
क्षिपाम्यजस्रमशुभान्, आसुरीष्वेव योनिषु ॥16.19॥

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ॥16.20॥
आसुरीं(य्ँ) योनिमापन्ना, मूढा जन्मनि जन्मनि ।
मामप्राप्यैव कौन्तेय, ततो यान्त्यधमां(ङ्) गतिम् ॥16.20॥

त्रिविधं नरकस्येदं द्वारं नाशनमात्मन: ।
काम: क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥16.21॥
त्रिविधं(न्) नरकस्येदं(न्), द्वारं(न्) नाशनमात्मनः ।
कामः(ख्) क्रोधस्तथा लोभ:(स्), तस्मादेतत्त्रयं(न्) त्यजेत् ॥16.21॥

एतैर्विमुक्त: कौन्तेय तमोद्वारैस्त्रिभिर्नर: ।
आचरत्यात्मन: श्रेयस्ततो याति परां गतिम् ॥16.22॥
एतैर्विमुक्तः(ख्) कौन्तेय, तमोद्वारैस्त्रिभिर्नरः ।
आचरत्यात्मनः(श्) श्रेय:(स्), ततो याति परां(ङ्) गतिम् ॥16.22॥

य: शास्त्रविधिमुत्सृज्य वर्तते कामकारत: ।
न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ॥16.23॥
यः(श्) शास्त्रविधिमुत्सृज्य, वर्तते कामकारतः ।
न स सिद्धिमवाप्नोति , न सुखं(न्) न परां(ङ्) गतिम् ॥16.23॥

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ॥16.24॥
तस्माच्छास्त्रं(म्) प्रमाणं(न्) ते, कार्याकार्यव्यवस्थितौ ।
ज्ञात्वा शास्त्रविधानोक्तं(ङ्), कर्म कर्तुमिहार्हसि ॥16.24॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां(य्ँ) 
योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्याय:॥
॥ ॐ श्रीकृष्णार्पणमस्तु ॥

Share This Article
Leave a Comment

Leave a Reply