भगवद्गीता – अध्याय 15 (पुरुषोत्तम योग) – श्लोक

ऊर्ध्वमूलमधः(श्) शाखम्, अश्वत्थं(म्) प्राहुरव्ययम् ।

3 Min Read
ॐ श्रीपरमात्मने नम:
श्रीमद्भगवद्गीता
अथ पञ्चदशोऽध्याय:

श्रीभगवानुवाच ।
ऊर्ध्वमूलमध:शाखमश्वत्थं प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ॥15.1॥
श्रीभगवानुवाच ।
ऊर्ध्वमूलमधः(श्) शाखम्, अश्वत्थं(म्) प्राहुरव्ययम् ।
छन्दांसि यस्य पर्णानि, यस्तं(व्ँ) वेद स वेदवित्॥15.1॥

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा
गुणप्रवृद्धा विषयप्रवाला: ।
अधश्च मूलान्यनुसन्ततानि
कर्मानुबन्धीनि मनुष्यलोके ॥15.2॥
अधश्चोर्ध्वं(म्) प्रसृतास्तस्य शाखा,
गुणप्रवृद्धा विषयप्रवाला: ।
अधश्च मूलान्यनुसन्ततानि,
कर्मानुबन्धीनि मनुष्यलोके ॥15.2॥

न रूपमस्येह तथोपलभ्यते
नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं सुविरूढमूल
मसङ्गशस्त्रेण दृढेन छित्त्वा ॥15.3॥
न रूपमस्येह तथोपलभ्यते,
नान्तो न चादिर्न च सम्प्रतिष्ठा ।
अश्वत्थमेनं(म्) सुविरूढमूलम्,
असङ्गशस्त्रेण दृढेन छित्त्वा ॥15.3॥

तत: पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूय: ।
तमेव चाद्यं पुरुषं प्रपद्ये
यत: प्रवृत्ति: प्रसृता पुराणी ॥15.4॥
ततः(फ्) पदं(न्) तत्परिमार्गितव्यं(य्ँ),
यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं(म्) पुरुषं(म्) प्रपद्ये,
यतः(फ्) प्रवृत्तिः(फ्) प्रसृता पुराणी ॥15.4॥

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामा: ।
द्वन्द्वैर्विमुक्ता: सुखदु:खसंज्ञै
र्गच्छन्त्यमूढा: पदमव्ययं तत् ॥15.5॥
निर्मानमोहा जितसङ्गदोषा,
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः(स्) सुखदुःखसञ्ज्ञै:(र्),
गच्छन्त्यमूढाः(फ्) पदमव्ययं(न्) तत् ॥15.5॥

न तद्भासयते सूर्यो न शशाङ्को न पावक: ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥15.6॥
न तद्भासयते सूर्यो, न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते, तद्धाम परमं(म्) मम ॥15.6॥

ममैवांशो जीवलोके जीवभूत: सनातन: ।
मन:षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥15.7॥
ममैवांशो जीवलोके, जीवभूतः(स्) सनातनः ।
मनः(ष्) षष्ठानीन्द्रियाणि, प्रकृतिस्थानि कर्षति ॥15.7॥

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वर: ।
गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ॥15.8॥
शरीरं(य्ँ) यदवाप्नोति, यच्चाप्युत्क्रामतीश्वरः ।
गृहीत्वैतानि संयाति, वायुर्गन्धानिवाशयात् ॥15.8॥

श्रोत्रं चक्षु: स्पर्शनं च रसनं घ्राणमेव च ।
अधिष्ठाय मनश्चायं विषयानुपसेवते ॥15.9॥
श्रोत्रं(ञ्) चक्षुः(स्) स्पर्शनं(ञ्) च, रसनं(ङ्) घ्राणमेव च ।
अधिष्ठाय मनश्चायं(व्ँ), विषयानुपसेवते ॥15.9॥

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुष: ॥15.10॥
उत्क्रामन्तं(म्) स्थितं(व्ँ) वापि, भुञ्जानं(व्ँ) वा गुणान्वितम् ।
विमूढा नानुपश्यन्ति, पश्यन्ति ज्ञानचक्षुषः ॥15.10॥

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतस: ॥15.11॥
यतन्तो योगिनश्चैनं(म्), पश्यन्त्यात्मन्यवस्थितम् ।
यतन्तोऽप्यकृतात्मानो, नैनं(म्) पश्यन्त्यचेतसः ॥15.11॥

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥15.12॥
यदादित्यगतं(न्) तेजो, जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ, तत्तेजो विद्धि मामकम् ॥15.12॥

गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधी: सर्वा: सोमो भूत्वा रसात्मक: ॥15.13॥
गामाविश्य च भूतानि, धारयाम्यहमोजसा ।
पुष्णामि चौषधीः(स्) सर्वाः(स्), सोमो भूत्वा रसात्मकः ॥15.13॥

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रित: ।
प्राणापानसमायुक्त: पचाम्यन्नं चतुर्विधम् ॥15.14॥
अहं(व्ँ) वैश्वानरो भूत्वा, प्राणिनां(न्) देहमाश्रितः ।
प्राणापानसमायुक्तः(फ्), पचाम्यन्नं(ञ्) चतुर्विधम् ॥15.14॥

सर्वस्य चाहं हृदि सन्निविष्टो
मत्त: स्मृतिर्ज्ञानमपोहनं च ।
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ॥15.15॥
सर्वस्य चाहं(म्) हृदि सन्निविष्टो,
मत्तः(स्) स्मृतिर्ज्ञानमपोहनं(ञ्) च ।
वेदैश्च सर्वैरहमेव वेद्यो,
वेदान्तकृद्वेदविदेव चाहम् ॥15.15॥

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च ।
क्षर: सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥15.16॥
द्वाविमौ पुरुषौ लोके, क्षरश्चाक्षर एव च ।
क्षरः(स्) सर्वाणि भूतानि, कूटस्थोऽक्षर उच्यते ॥15.16॥

उत्तम: पुरुषस्त्वन्य: परमात्मेत्युदाहृत: ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वर: ॥15.17॥
उत्तमः(फ्) पुरुषस्त्वन्यः(फ्), परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य, बिभर्त्यव्यय ईश्वरः ॥15.17॥

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तम: ।
अतोऽस्मि लोके वेदे च प्रथित: पुरुषोत्तम: ॥15.18॥
यस्मात्क्षरमतीतोऽहम्, अक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च, प्रथितः(फ्) पुरुषोत्तमः ॥15.18॥

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां सर्वभावेन भारत ॥15.19॥
यो मामेवमसम्मूढो, जानाति पुरुषोत्तमम् ।
स सर्वविद्भजति मां(म्), सर्वभावेन भारत ॥15.19॥

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥15.20॥
इति गुह्यतमं(म्) शास्त्रम्, इदमुक्तं(म्) मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्, कृतकृत्यश्च भारत ॥15.20॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां(य्ँ) योगशास्त्रे 
श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्याय: ॥
॥ॐ श्रीकृष्णार्पणमस्तु॥

Share This Article
Leave a Comment

Leave a Reply